Sat, Nov 15, 2025
25 C
Gurgaon

पौष पूर्णिमायां महाकुम्भस्य 2025 भव्यम् उद्घाटनम् – मुख्यमन्त्री योगी आदित्यनाथः दत्तवान् शुभकामनाः

विश्वस्य सर्वाधिक्याः, आध्यात्मिक्याः सांस्कृतिक्याः च सभायाः ‘महाकुम्भस्य 2025’ उद्घाटनं पवित्र नगरे प्रयागराजे जातम्

मुख्यमन्त्री योगी आदित्यनाथः समस्त भक्तानां, साधूनां, महात्मनां, कल्पवासिनाम् आगन्तुकानां च स्वागतमकरोत् , महाकुम्भस्य प्रथमस्नानस्य प्रदत्तवान् शुभकामनाः

लखनऊ, 13 जनवरीमासः (हि.स.)। विश्वस्य सांस्कृतिकसभा -‘महाकुम्भस्य 2025’ सोमवासरतः पवित्रनगरे प्रयागराजे प्रारम्भः जातः । अस्मिन् शुभावसरे मुख्यमन्त्री योगी आदित्यनाथः सर्वेषां भक्तानां, साधूनां, महात्मानां, कल्पवासिनाम्, आगन्तुकानां च स्वागतं कृत्वा महाकुम्भस्य प्रथमस्नानार्थं शुभकामनाम् अयच्छत्।

मुख्यमन्त्री महाकुम्भः भारतस्य आध्यात्मिकसास्कृतिकगौरवस्य प्रतीकः इति उक्तवान्। एषा घटना ‘विविधतायाम् एकता’ इति भावनां सजीवं करोति । गङ्गामातुः पुण्यजले स्नानं ध्यानं च कर्तुं ये भक्ताः आगच्छन्ति तेषां सर्वेषां मनोकामना पूर्णा भवतु।

सः अपि अवदत् यत् एषः उत्सवः न केवलं धार्मिकास्थायाः केन्द्रः अपितु सनातनसंस्कृतेः परम्पराणां च वैश्विकगौरवस्य प्रतीकः अपि अस्ति। मुख्यमन्त्री उक्तवान् यत् महाकुम्भं दिव्यं भव्यं च कर्तुं सर्वा व्यवस्था सुनिश्चिता कृता अस्ति। स्वच्छता, सुरक्षा, स्वास्थ्यसेवा, यातायात, आवासीय प्रबन्धन इत्येतयोः विषये विशेषं ध्यानं दत्तम् अस्ति।

सङ्गमस्य तटे भक्तिजलप्रवाहः अभवत्

अद्य पौषपूर्णिमायाः अवसरे लक्षशः भक्ताः गङ्गा-यमुना-सरस्वती-पवित्रसङ्गमे स्नानं कुर्वन्ति । सङ्गम-तटे आध्यात्मिक-आनन्दस्य, धार्मिक-आस्थायाः च अद्वितीयं दृश्यं दृश्यते । भारतात् विदेशात् च आगच्छन्तः भक्तानां कृते महाकुम्भः जीवनस्य एकः अद्वितीयः अनुभवः भवति।

मुख्यमन्त्री सन्देशः

“आगम्यतां, महाकुम्भे 2025 भागं गृहीत्वा सनातनसंस्कृतेः अस्याः गौरवपूर्णपरम्परायाः भागः भवतु। मातुर्गङ्गायाः प्रसादेन भवतः जीवनं सुखशान्तिसमृद्धिभिः परिपूर्णं भवतु।

Archita phukan का वायरल वीडियो लिंक, क्या है नजारा?

असम की सोशल मीडिया सनसनी Archita phukan, उर्फ बेबीडॉल आर्ची, ने ‘डेम अन ग्रर’ पर बोल्ड डांस वीडियो से इंटरनेट पर धूम मचा दी। लेकिन MMS लीक और पॉर्न इंडस्ट्री की अफवाहों ने विवाद खड़ा कर दिया। वीडियो में क्या है नजारा, और क्या है सच?

SGT University में नजीब जंग ने की डिस्टेंस और ऑनलाइन एजुकेशन सेंटर की घोषणा!

SGT यूनिवर्सिटी में नजीब जंग ने सिर्फ प्रेरणा नहीं दी, बल्कि एक नई शिक्षा क्रांति की नींव भी रखी। क्या है इसकी खासियत?

SGT विश्वविद्यालय में रक्तदान शिविर: चरक जयंती पर मानवता की अनमोल मिसाल

SGT विश्वविद्यालय में चरक जयंती पर लगे रक्तदान शिविर ने आयुर्वेद की मूल भावना – सेवा और करुणा – को जीवंत किया।

Ratan Tata ने अपनी वसीयत में पेटडॉग का भी रखा ध्यान, जानिए अब कौन करेगा Tito की देखभाल

 हाल ही में देश के सबसे बड़े औद्योगिक घराने...
spot_img

Related Articles

Popular Categories